|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.36. अध्यायः 036
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन भीष्ममुखाराजधर्मादिश्रवणे आदिष्टस्य युधिष्ठिरस्य कृष्णाद्याज्ञया धृतराष्ट्रादिभिः सह कुरुनगरप्रवेशः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-36-0x(5409)(66202)
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने।
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान्॥ 12-36-1(66203)
आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम।
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम्॥ 12-36-2(66204)
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता।
कौतूहलानुप्रवणा हर्षं जनयतीव मे॥ 12-36-3(66205)
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते।
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः॥ 12-36-4(66206)
वैशम्पायन उवाच। 12-36-5x(5410)
तमुवाच महाराज व्यासो वेदविदां वरः।
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम्॥ 12-36-5(66207)
श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप।
प्रेहि भीष्मं महाबाहो वृद्धं कुरुपितामहम्॥ 12-36-6(66208)
स ते धर्मरहस्येषु संशयान्मनसि स्थितान्।
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित्॥ 12-36-7(66209)
जनयामास यं देवी दिव्या त्रिपथगा नदी।
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान्॥ 12-36-8(66210)
बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः।
तोषयित्वोपचारेण राजनीतिमधीतवान्॥ 12-36-9(66211)
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः।
स च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः॥ 12-36-10(66212)
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान्।
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः॥ 12-36-11(66213)
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम्।
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा॥ 12-36-12(66214)
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान्।
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुपर्षभः॥ 12-36-13(66215)
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि।
तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः॥ 12-36-14(66216)
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्स भसादः।
यस्य नाविदितं किंचिज्ज्ञानं ज्ञेयेषु दृश्यते॥ 12-36-15(66217)
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित्।
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित्॥ 12-36-16(66218)
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः।
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम्॥ 12-36-17(66219)
युधिष्ठिर उवाच। 12-36-18x(5411)
वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम्।
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः॥ 12-36-18(66220)
घातयित्वा तमेवाजौ छलेनाजिह्नयोधिनम्।
उपसंप्रष्टुमर्हामि तमहं केन हेतुना॥ 12-36-19(66221)
वैशम्पायन उवाच। 12-36-20x(5412)
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया।
पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः॥ 12-36-20(66222)
वासुदेव उवाच। 12-36-21x(5413)
नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि।
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम॥ 12-36-21(66223)
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः।
पर्जन्यमिव घर्मान्ते नाथमाना उपासते॥ 12-36-22(66224)
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम्।
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम्॥ 12-36-23(66225)
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम्।
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः॥ 12-36-24(66226)
सुहृदामस्मदादीनां द्रौपद्यांश्च परंतप।
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु॥ 12-36-25(66227)
वैशम्पायन उवाच। 12-36-26x(5414)
एवमुक्तः स कृष्णेन राजा राजीवलोचनः।
हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः॥ 12-36-26(66228)
सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम्।
द्वैपायनेन च तथा देवस्थानेन जिष्णुना॥ 12-36-27(66229)
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः।
व्यजहान्मानसं दुःखं संतापं च महायशाः॥ 12-36-28(66230)
श्रुतवाक्यः श्रुतनिधिः श्रुतश्राव्यविशारदः।
व्यवस्य मनसा शान्तिमगच्छत्पाण्डुनन्दनः॥ 12-36-29(66231)
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः।
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह॥ 12-36-30(66232)
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः।
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः॥ 12-36-31(66233)
ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम्।
युक्तं षोडशभिस्त्वश्चैः पाण़्डुरैः शुभलक्षणैः॥ 12-36-32(66234)
मन्त्रैरभ्यर्चितं पण्यैः स्तूयमानश्च बन्दिभिः।
आरुरोह यथा देवः सोमोऽम्रतमयं यथम्॥ 12-36-33(66235)
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः।
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत्॥ 12-36-34(66236)
ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि।
शुशुभे तारकाराजः सिताभ्र इव चाम्बरे॥ 12-36-35(66237)
चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा।
चन्द्ररश्मिप्रये शुभ्रे माद्रीपुत्रावलंकृते॥ 12-36-36(66238)
ते पञ्च रथमास्थाय भ्रातरः समलंकृताः।
भूतानीव समस्तानि राजन्ददृशिरे तदा॥ 12-36-37(66239)
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः।
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम्॥ 12-36-38(66240)
रथं हेममयं शुभ्रं शैव्यसुग्रीवयाजितम्।
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून्॥ 12-36-39(66241)
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत।
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ॥ 12-36-40(66242)
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च माधवी।
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः॥ 12-36-41(66243)
ततो रथाश्च बहुला नागाश्वसमलंकृताः।
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन्॥ 12-36-42(66244)
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः।
स्तूयमानो ययौ राजा नगरं नागसाह्वयम्॥ 12-36-43(66245)
तत्प्रयाणं माहबाहोर्बभूवाप्रतिमं भुवि।
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम्॥ 12-36-44(66246)
अभियाने तु पार्थस्य नरैर्नगरवासिभिः।
नगरं राजमार्गाश्च यथावत्समलंकृताः॥ 12-36-45(66247)
पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी।
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः॥ 12-36-46(66248)
अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः।
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम्॥ 12-36-47(66249)
कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः।
सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह॥ 12-36-48(66250)
तथा स्वलंकृतं द्वारं नगरं पाण्डुनन्दनः।
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः॥ ॥ 12-36-49(66251)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षट्त्रिंशोऽध्यायः॥ 36॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-36-3 कौतूहलेन प्रसङ्गेनाऽनुप्रवणा अभिमुखा॥ 12-36-6 प्रेहि प्रयाहि॥ 12-36-10 यच्च देवगुरुर्द्रिज इति झ. पाठः। सवैयाख्यं व्याख्यासहितम्॥ 12-36-16 विमुञ्चति विमोक्ष्यति ततः पुरा॥ 12-36-18 वैशसं विनाशम्॥ 12-36-22 नाथमानाः याचमानाः। उपासत इत्युत्तरत्रापि योज्यम्॥ 12-36-27 विष्टरश्रवसा विष्णुना॥ 12-36-28 संतापं शारीरं तापम्॥ 12-36-29 वाक्यानि वेदावयवाः। निधिस्तदर्थविचारग्रन्थो मीमांसा। श्रुतं श्राव्यं नीतिशास्त्रादि। व्यवस्य कर्तव्यमर्थं निश्चित्य॥ 12-36-33 अमृतमयं देवतामयम्॥ 12-36-38 युयुत्सुर्धृतराष्ट्रपुत्रः॥ 12-36-46 मेदिनी समलंकृतेत्यनुषज्यते। धूपनैः अगरुप्रभृतिभिर्धूपद्रव्यैः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|